![]() |
ॐ श्री गणेशाय नमः |
मेषः द्वादश राशिषु अन्यतमः अस्ति । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।
- मेष-वृश्चिकयोः अधिपतिः कुजः । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते ।निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
- वृषभ-तुलाराश्योः शुक्रः अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।
- मिथुन-कन्याराश्योः बुधः अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
- कर्कटराशेः अधिपतिः अस्ति चन्द्रः । असमर्थः राजा राज्ञी इति वा चन्द्रं सामान्यतः जनाः अभिजानन्ति । कर्कटराशिवन्तः सर्वे यदि सहकुर्वन्ति तर्हि आधिपत्यं प्राप्तव्यम् इति इच्छुकाः प्रयतमानाश्च भवन्ति । चन्द्रः न स्वयं प्रकाशः, अन्यं ग्रहं परितः भ्रमति, तस्य कलाः परिवर्तन्ते इत्यतः कर्कटराशिवन्तः आवश्यकतानुगुणं व्यवहारः, अवसरे प्राप्ते स्वस्य प्रामुख्यस्य प्रदर्शनम्, स्नेहशीलता, अन्येषु अवलम्बनस्वभावश्च भवन्ति । चन्द्रः रात्रौ प्राबल्यं यथा प्रदर्शयति तथा एते कार्यनिर्वहणावसरे कुत्रचित् स्वस्य वैशिष्ट्यं प्रदर्शयन्ति । असमर्थः राजा इत्यतः एतेषु अन्येषां प्रभावः भवति अगाधः । एते सर्वेषाम् अभिप्रायं शृण्वन्ति । सर्वान् तोषयितुं प्रयतन्ते च । अन्येषाम् अभिप्रायाः न आद्रियन्ते चेत् स्वस्य स्थानं रक्षितं न भवति इति एतेषां चिन्तनम् । राज्ञी इत्यतः प्रीत्या, जलग्रहः इत्यतः आकर्षणेन उपायनादीनां दानेन च सर्वान् वशीकर्तुम् एते प्रयतन्ते । सर्वे मम वचनं न शृण्वन्ति इति चिन्तयद्भिः एतैः मानसिकभावावेगः अनुभूयते । सुलभतया रोगग्रस्ताः भवन्ति । शारीरक-मानसिक-अस्वास्थ्यावसरे आत्मीयाः सर्वे समीपे एव भवेयुः इति आग्रहः अधिकः दृश्यते एतेषु । मातृप्रीतिः, न्यूननिर्णयशक्तिः, आकर्षणञ्च एतेषां वैशिष्ट्यम् ।
- सिंहराशेः अधिपतिः रविः । रविः ग्रहाणां राजा । सूर्यः स्वयं प्रकाशवान्, स्वावलम्बी सन् अन्येभ्यः प्रकाशं तापञ्च वितरन् सर्वान् उपकरोति । इदं तत्त्वं सिंहराशिवत्सु अधिकतया दृश्यते । एतेषु आत्मविश्वासः अत्यधिकः इत्यतः सर्वत्रापि मम निर्णयः एव अन्तिमः भवेत्, सर्वे माम् एव अनुसरेयुः इति तत्त्वं तेषु अधिकतया भवति । अयं गुणः कदाचित् दुराग्रहं मूर्खताञ्च प्रदर्शयति । किन्तु सः भावः यथा दृग्गोचरः न स्यात् तथा ते निर्वहन्ति । स्वस्य भावनाः निगूह्य न्यूनताः सङ्गोप्य गम्भीरतया वर्तयन्ति ते । अन्येषां प्रगति एतेषाम् असहनाय भवति । असहना असूयारूपं यदि प्राप्नोति ते अन्यान् बाधन्ते च । स्वस्य विषयः उच्यते चेत् अन्ये ममविषये लघुचिन्तनं कुर्युः इति भयेन एते अन्यान् किमपि न वदन्ति । तस्मात् चिन्ताभारेण हृदयरोगं मनोव्याधिञ्च प्राप्नुवन्ति । कार्यनिर्वहणे एते नितरां सामर्थ्यवन्तः भवन्ति । मत्तः बहु जनाः प्रयोजनं प्राप्नुयुः ततः ते कृतज्ञाः स्युः, स्वस्य नियन्त्रणे स्युः इत्यपि एते इच्छन्ति । एतन्निमित्तं कदाचित् ते अन्यान् भाययेयुः अपि ।
- मिथुन-कन्याराश्योः बुधः अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
- वृषभ-तुलाराश्योः शुक्रः अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।
- मेष-वृश्चिकयोः अधिपतिः कुजः । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते ।निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
- धनु-मीनराश्योः अधिपतिः गुरुः । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः न्यायनिष्ठः अमात्यः । स्वस्य चिन्तनानि लोककल्याणकारकाणि भवेयुः इति आशास्ते अयम् । लोकोपकारिणां कार्याणां विषये संशोधने अग्रेसरप्रवृत्तिः एतेषु दृश्यते । उत्तम चिन्तनानि लक्ष्यसाधनशक्तिश्च धनुराशिवतां वैशिष्ट्यम् । उपकारिणां विधानानां प्रचाराय निरन्तरं प्रयतन्ते एते । विषयाणां गभीराध्ययनं, लाभालाभविषये विश्लेषणम्, उत्तमस्य प्रोत्साहनम्, अनुत्तमस्य निवारणाय समीचीनयोजनानिर्माणं च अमात्यस्य गुरोः कार्याणि । जनानाम् आवश्यकतायाः अभिज्ञानं, सर्वे यथा प्राप्नुयुः तथा करणाय संशोधनानि योजनाश्च तेषां द्वारा एव भविष्यति । स्वस्य भावान् अन्येषां द्वारा कार्यान्वयनं कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः । स्वकार्ये एव मग्नाः सन्तः अन्येषाम् अपि मार्गदर्शनं कुर्वन्तः भवन्ति । गभीरपरिशीलनं धनुराशिवतां वैशिष्ट्यम् । सर्वविधसंशोधनानि परमात्मनः प्राप्त्यै मार्गाः इति गुरुग्रहस्य प्रभावेण एव भावयितुं शक्यम् । आत्मगौरववर्धनं गुरुग्रहस्य वैशिष्ट्यम् ।
- मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । मकरराशौ श्रमपूर्वकसेवा दृश्यते । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।
- मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।
- धनु-मीनराश्योः अधिपतिः गुरुः । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः न्यायनिष्ठः अमात्यः । स्वस्य चिन्तनानि लोककल्याणकारकाणि भवेयुः इति आशास्ते अयम् । लोकोपकारिणां कार्याणां विषये संशोधने अग्रेसरप्रवृत्तिः एतेषु दृश्यते । उत्तम चिन्तनानि लक्ष्यसाधनशक्तिश्च धनुराशिवतां वैशिष्ट्यम् । उपकारिणां विधानानां प्रचाराय निरन्तरं प्रयतन्ते एते । विषयाणां गभीराध्ययनं, लाभालाभविषये विश्लेषणम्, उत्तमस्य प्रोत्साहनम्, अनुत्तमस्य निवारणाय समीचीनयोजनानिर्माणं च अमात्यस्य गुरोः कार्याणि । जनानाम् आवश्यकतायाः अभिज्ञानं, सर्वे यथा प्राप्नुयुः तथा करणाय संशोधनानि योजनाश्च तेषां द्वारा एव भविष्यति । स्वस्य भावान् अन्येषां द्वारा कार्यान्वयनं कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः । स्वकार्ये एव मग्नाः सन्तः अन्येषाम् अपि मार्गदर्शनं कुर्वन्तः भवन्ति । सामान्यपरिशीलनं मीनराशिवतां वैशिष्ट्यम् । सर्वविधसंशोधनानि परमात्मनः प्राप्त्यै मार्गाः इति गुरुग्रहस्य प्रभावेण एव भावयितुं शक्यम् । आत्मगौरववर्धनं गुरुग्रहस्य वैशिष्ट्यम् ।
0 comments:
Post a Comment